=====================
शनि बीज मन्त्र - ॐ प्राँ प्रीं प्रौं सः शनैश्चराय नमः ॥
---------------------------------------------
शनैश्चराय
शान्ताय सर्वाभीष्टप्रदायिने ।
शरण्याय वरेण्याय सर्वेशाय नमो नमः ॥ १॥
सौम्याय सुरवन्द्याय
सुरलोकविहारिणे ।
सुखासनोपविष्टाय
सुन्दराय नमो नमः ॥ २॥
घनाय घनरूपाय घनाभरणधारिणे
।
घनसारविलेपाय
खद्योताय नमो नमः ॥ ३॥
मन्दाय मन्दचेष्टाय
महनीयगुणात्मने ।
मर्त्यपावनपादाय
महेशाय नमो नमः ॥ ४॥
छायापुत्राय
शर्वाय शरतूणीरधारिणे ।
चरस्थिरस्वभावाय
चञ्चलाय नमो नमः ॥ ५॥
नीलवर्णाय
नित्याय नीलाञ्जननिभाय च ।
नीलाम्बरविभूषाय
निश्चलाय नमो नमः ॥ ६॥
वेद्याय विधिरूपाय
विरोधाधारभूमये ।
भेदास्पदस्वभावाय वज्रदेहाय ते नमः ॥ ७॥
वैराग्यदाय
वीराय वीतरोगभयाय च ।
विपत्परम्परेशाय
विश्ववन्द्याय ते नमः ॥ ८॥
गृध्नवाहाय
गूढाय कूर्माङ्गाय कुरूपिणे ।
कुत्सिताय
गुणाढ्याय गोचराय नमो नमः ॥ ९॥
अविद्यामूलनाशाय
विद्याऽविद्यास्वरूपिणे ।
आयुष्यकारणायाऽपदुद्धर्त्रे च नमो नमः ॥ १०॥
विष्णुभक्ताय
वशिने विविधागमवेदिने ।
विधिस्तुत्याय
वन्द्याय विरूपाक्षाय ते नमः ॥ ११॥
वरिष्ठाय गरिष्ठाय वज्राङ्कुशधराय
च
।
वरदाभयहस्ताय
वामनाय नमो नमः ॥ १२॥
ज्येष्ठापत्नीसमेताय श्रेष्ठाय मितभाषिणे ।
कष्टौघनाशकर्याय
पुष्टिदाय नमो नमः ॥ १३॥
स्तुत्याय
स्तोत्रगम्याय भक्तिवश्याय भानवे ।
भानुपुत्राय
भव्याय पावनाय नमो नमः ॥ १४॥
धनुर्मण्डलसंस्थाय धनदाय धनुष्मते ।
तनुप्रकाशदेहाय
तामसाय नमो नमः ॥ १५॥
अशेषजनवन्द्याय
विशेषफलदायिने ।
वशीकृतजनेशाय
पशूनाम्पतये नमः ॥ १६॥
खेचराय खगेशाय घननीलाम्बराय
च
।
काठिन्यमानसायाऽर्यगणस्तुत्याय ते नमः ॥ १७॥
नीलच्छत्राय
नित्याय निर्गुणाय गुणात्मने ।
निरामयाय निन्द्याय
वन्दनीयाय ते नमः ॥ १८॥
धीराय दिव्यदेहाय
दीनार्तिहरणाय च ।
दैन्यनाशकरायाऽर्यजनगण्याय ते नमः ॥ १९॥
क्रूराय क्रूरचेष्टाय
कामक्रोधकराय च ।
कळत्रपुत्रशत्रुत्वकारणाय नमो नमः ॥ २०॥
परिपोषितभक्ताय
परभीतिहराय ।
भक्तसङ्घमनोऽभीष्टफलदाय नमो नमः ॥ २१॥
इत्थं शनैश्चरायेदं
नांनामष्टोत्तरं शतम् ।
प्रत्यहं प्रजपन्मर्त्यो दीर्घमायुरवाप्नुयात् ॥...........................................................हर-हर महादेव
No comments:
Post a Comment