==================
श्रीगणेशाय
नमः ।
विनियोग
------------
अस्य श्रीबृहस्पतिकवचस्तोत्रमन्त्रस्य ईश्वर ऋषिः, अनुष्टुप् छन्दः, गुरुर्देवता, गं बीजं, श्रीशक्तिः, क्लीं कीलकं, गुरुप्रीत्यर्थं जपे विनियोगः ।
अभीष्टफलदं
देवं सर्वज्ञं सुरपूजितम् ।
अक्षमालाधरं
शान्तं प्रणमामि बृहस्पतिम् ॥ १॥
बृहस्पतिः
शिरः पातु ललाटं पातु मे गुरुः ।
कर्णौ सुरगुरुः
पातु नेत्रे मेऽभीष्टदायकः ॥ २॥
जिह्वां पातु सुराचार्यो
नासां मे वेदपारगः ।
मुखं मे पातु सर्वज्ञो
कण्ठं मे देवतागुरुः ॥ ३॥
भुजावाङ्गि रसः
पातु करौ पातु शुभप्रदः ।
स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः
॥
४॥
नाभिं देवगुरुः
पातु मध्यं पातु सुखप्रदः ।
कटिं पातु जगद्वन्द्य
ऊरू मे पातु वाक्पतिः ॥ ५॥
जानुजङ्घे
सुराचार्यो पादौ विश्वात्मकस्तथा ।
अन्यानि यानि चाङ्गानि
रक्षेन्मे सर्वतो गुरुः ॥ ६॥
इत्येतत्कवचं
दिव्यं त्रिसन्ध्यं यः पठेन्नरः ।
सर्वान्कामानवाप्नोति सर्वत्र विजयी भवेत् ॥ ७॥
॥ इति श्रीब्रह्मयामलोक्तं बृहस्पतिकवचं सम्पूर्णम् ॥.......................................................हर-हर महादेव
No comments:
Post a Comment