=============================
ग्रहपुरश्चरण
प्रयोगः
ॐ रक्तपद्मासनं
देवं चतुर्बाहुसमन्वितम् ।
क्षत्रियं
रक्तवर्ण गोत्रं काश्यपसम्भवम् ॥
सप्ताश्वरथमारूढं प्रचण्डं सर्वसिद्धिदम् ।
द्विभुजं रक्तपद्मैश्च
संञ्चयुक्तं परमाद्भुतम् ॥
कलिङ्गदेशजं
देवं मौलिमाणिक्यभूषणम् ।
त्रिनेत्रं
तेजसा पूर्णमुदयाचलसंस्थितम् ॥
द्वादशाङ्गुल-विस्तीर्णं प्रवरं घृतकौशिकम् ।
शिवाधिदैवं
पुर्वास्यं ब्रह्मप्रत्यधिदैवतम् ॥
क्लीं ऐं श्रीं ह्रीं सूर्याय नमः ।
ॐ शुक्लं शुक्लाम्बरधरं
श्वेताब्जस्थं चतुर्भुजम् ।
हारकेयूरनूपुरैर्मण्डितं तमसापहम् ॥
सुखदृश्यं सुधायुक्त-मात्रेयं वैश्यजातिजम् ।
कलङ्काङ्कितसर्वाङ्गं केशपाशातिसुन्दरम् ॥
मुकुटेर्मणिमाणिक्यैः शोभनीयं तु लोचनम् ।
योषित्प्रियं
महानन्दं यमुनाजलसम्भवम् ॥
उमाधिदैवतं
देवमापप्रत्यधिदैवतम् ॥
ह्रीं ह्रीं हुं सोमाय स्वाहा ।
ॐ मेशाधिरूढं
द्विभुजं शक्तिचापधरं मुदा ।
रक्तवर्णं
महातेजं तेजस्वीनां समाकुलम् ॥
रक्तवस्त्रपरिधानम् नानालङ्कारसंयुतम् ।
रक्ताङ्गं
धरणीपुत्रं रक्तमाल्यानुलेपनम् ॥
हस्ते वाराहदशनं
पृष्ठे तूणसमन्वितम् ।
कटाक्षाद्
भीतिजनकं महामोहप्रदं महत् ॥
महाचापधरं
देवं महोग्रमुग्रविग्रहम् ।
स्कन्दादिदैवं
सूर्यास्यं क्षितिप्रत्यधिदैवतम् ॥
ह्रीं ॐ ऐं कुजाय स्वाहा ।
ॐ सुतप्तस्वर्णाभतनुं रोमराजिविराजितम् ।
द्विभुजं स्वर्णदण्डेव
शरच्चन्द्रनिभाननम् ॥
चरणे रत्नमञ्जीरं
कुमारं शुभलक्षणम् ।
स्वर्णयज्ञोपवीतञ्च पीतवस्त्रयुगावृतम् ॥
अत्रिगोत्रसमुत्पन्नं वैश्यजातिं महाबलम् ।
मागधं महिमापूर्णं
द्विनेत्रं द्विभुजं शुभम् ॥
नारायणाधिदैवञ्च
विष्णुप्रत्यधिदैवतम् ।
चिन्तयेत्
सोमतनयं सर्वाभिष्टफलप्रदं ॥
ॐ क्लीं ॐ बुधाय स्वाहा ।
ॐ कनकरुचिरगौरं
चारुमूर्तिं प्रसन्नं
द्विभुजमपि
सरजौ सन्दधानं सुरेज्यं ।
वसनयुगदधानं
पीतवस्त्रं सुभद्रं
सुरवरनरपुज्यमङ्गिरोगोत्रयुक्तम् ॥
द्विजवरकुलजातं
सिन्धुदेशप्रसिद्धं
त्रिजगति गणश्रेष्ठश्चाधिदैवं तदीयम् ।
सकलगिरिनिहन्ता इन्द्रः प्रत्याधिदैवं
ग्रहगणगुरुनाथं
तं
भजेऽभीष्टसिद्धौ ॥
रं यं ह्रीं ऐं गुरवे नमः ।
ॐ शुक्लाम्बरं
शुक्लरुचिं सुदीप्तं
तुषारकुन्देन्दुद्युतिं चतुर्भुजम् ।
इन्द्राधिदैवं
शचीप्रत्याधिदैवं
वेदार्थविज्ञं
च
कविं कवीनाम् ॥
भृगुगोत्रयुक्तं
द्विजजातिमात्रं
दितीन्द्रपूज्यं
खलु शुद्धिशान्तं ।
सर्वार्थसिद्धिप्रदमेव काव्यं
भजेऽप्यहं
भोजकतोद्भवं भृगुम् ॥
हुं हुं श्रीं श्रीं नं रं शुक्राय स्वाहा ।
ॐ सौरिं गृध्रगतातिकृष्णवपुषं कालाग्निवत् सङ्कुलं
संयुक्तं भुजपल्लवैरुपलसत्स्तम्भैश्चतुर्भिः समैः ।
भीमं चोग्रमहाबलातिवपुषं बाधागणैः संयुतं
गोत्रं काश्यपजं सुराष्ट्रविभवं
कालाग्निदैवं शनिम् ॥
वस्त्रैः कृष्णमयैर्युतं
तनुवरं तं सूर्यसूनुं भजे ॥
ह्रीं क्लीम् शनैश्चराय
नमः ।
ॐ महिषस्थं कृष्णं वदनमयविभुं
कर्णनासाक्षिमात्रम्
कारालास्यं
भीमं गदविभवयुतं श्यामवर्णं महोग्रं ।
पैठीनं गोत्रयुक्तं
रविशशीदमनं चाधिदैवं यमोऽपि
सर्पप्रत्यधिदैवतं मलयगीर्भावं तं तमसं नमामि ॥
वं ऐं वं वं क्लीं वं तमसे स्वाहा ।
ॐ महोग्रं धूमाभं करचरणयुतं
छिन्नशीर्षं सुदीप्तम्
हस्ते वाणं कृपाणं त्रिशिखशशिधृतं
वेदहस्तं प्रसन्नं ।
ब्रह्मा तस्याधिदैवं
सकलगदयुतं सर्पप्रत्यधिदैवं ध्यायेत्
केतुं विशालं सकलसुरनरे
शान्तिदं पुष्टिदञ्च ॥
श्रीं श्रीं आं वं रं लं केतवे स्वाहा ।...........................................................हर-हर महादेव
No comments:
Post a Comment