========================
श्री गणेशाय नमः ॥
शुकतुण्डच्छवि
सवितुश्चण्डरुचेः पुण्डरीकवनबन्धोः ।
मण्डलमुदितं
वन्दे कुण्डलमाखण्डलाशायाः ॥ १॥
यस्योदयास्तसमये
सुरमुकुटनिघृष्टचरणकमलोऽपि ।
कुरुतेञ्जलिं
त्रिनेत्रः स जयति धाम्नां निधिः सूर्यः ॥ २॥
उदयाचलतिलकाय
प्रणतोऽस्मि विवस्वते ग्रहेशाय ।
अम्बरचूडामणये
दिग्वनिताकर्णपूराय ॥ ३॥
जयति जनानन्दकरः
करनिकरनिरस्ततिमिरसङ्घातः ।
लोकालोकालोकः
कमलारुणमण्डलः सूर्यः ॥ ४॥
प्रतिबोधितकमलवनः कृतघटनश्चक्रवाकमिथुनानाम् ।
दर्शितसमस्तभुवनः परहितनिरतो रविः सदा जयति ॥ ५॥
अपनयतु सकलकलिकृतमलपटलं
सप्रतप्तकनकाभः ।
अरविन्दवृन्दविघटनपटुतरकिरणोत्करः सविता ॥ ६॥
उदयाद्रिचारुचामरहरितहयखुरपरिहितरेणुराग ।
हरितहय हरितपरिकर
गगनाङ्गनदीपक नमस्ते ॥ ७॥
उदितवति त्वयि विकसति मुकुलीयति
समस्तमस्तमितबिम्बे ।
न ह्यन्यस्मिन्दिनकर सकलं कमलायते भवनम् ॥ ८॥
जयति रविरुदयसमये
बालातपः कनकसन्निभो यस्य ।
कुसुमाञ्जलिरिव
जलधौ तरन्ति रथसप्तयः सप्त ॥ ९॥
आर्याः साम्बुपुरे
सप्त आकाशात्पतिता भुवि ।
यस्य कण्ठे गृहे वापि न स लक्ष्म्या
वियुज्यते ॥ १०॥
आर्याः सप्त सदा यस्तु सप्तम्यां
सप्तधा जपेत् ।
तस्य गेहञ्च दीपञ्च पद्मा सत्यं न मुञ्चति ॥ ११॥
निधिरेश दरिद्राणां
रोगिणां परमौषधम् ।
सिद्धि सकलकार्याणां
गाथेयं संसृता रवेः ॥ १२॥
इति श्रीयाज्ञवल्क्यविरचितं सूर्यार्यास्तोत्रं सम्पूर्णम् ।.................................................................हर-हर महादेव
No comments:
Post a Comment