Thursday 14 December 2017

श्री पंचमुख हनुमत्कवचम

:::::::::::::::::श्री पंचमुख हनुमत्कवचम :::::::::::::::::
=================================
श्री पंचवदनायांजनेयाय नमः।
  अस्य श्री पंचमुखहनुमत्कवचमन्त्रस्य ब्रह्मा ऋषिः, गायत्रीछन्दः
,पंचमुखविराट्हनुमान् देवता, ह्रीं बीजं, श्रीं शक्ति, क्रौं कीलकं, क्रूं कवचं, क्रैं अस्राय फट् इति दिग्बन्धः
श्री गरुड उवाच:
अथ ध्यानं प्रवक्ष्यामि श्रृणुसर्वांगसुन्दरि
यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम् 1
पंचवक्त्रं महाभीमं त्रिपंचनयनैर्युतम्
बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् 2
पूर्वंतु वानरं वक्त्रं कोटिसूर्यसमप्रभम्
दंष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् 3
अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम्
अत्युग्रतेजोवपुषं भीषणं भयनाशनम् 4
पश्चिमं गारुडं वक्त्रं वक्रतुंडं महाबलम्॥
सर्वनागप्रशमनं विषभूतादिकृन्तनम् 5
उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम्
पातालसिंहवेतालज्वररोगादिकृन्तनम् 6
ऊर्ध्वं हयाननं घोरं दानवांतकरं परम
येन वक्त्रेण विप्रेंद्र तारकाख्यं महासुरम् 7
जघान शरणं तत्स्यात्सर्वशत्रुहरं परम्
ध्यात्वा पंचमुखं रुद्रं हनुमन्तं दयानिधिम् 8
खंग त्रिशूलं खट्वांगं पाशमंकुशपर्वतम्‌
मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम् 9
भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुंगवम्
एतान्यायुधजालानि धारयन्तं भजाम्यहम् 10
प्रेतासनोपविष्टं तं सर्वाभरणभूषितम्‌
दिव्यमाल्याम्बरघर दिव्यगन्धानुलेपनम् 11
सर्वाश्चर्यमय देव हनुमद्विश्वतोमुखम्
पश्चास्यमच्युतम नेकविचित्रवर्णं वक्त्रं
शशांकशिखरं कपिराजवयम
पीतांबरादिमुकुटैरूपशोभितांग
पिंगाक्षमाद्यमनिशं मनसा स्मरामि 12
मर्कटेशं महोत्साहं सर्वशत्रुहरं परम्
शत्रु संहर मां रक्ष श्रीमन्नापदमुद्धर 13
हरिमर्कट मर्कट मन्त्रमिदं, परिलिख्यति लिख्यति वामतले
यदि नश्यति नश्यति शत्रुकुलं ,यदि मुश्चति मुश्चति वामलता 14

जो भक्त श्री पंचमुखहनुमत्कवचं का पाठ करते है,उन पर श्री हनुमानजी की विशेष कृपा होती है उस भक्त की सभी मनोकामनाए अवश्य पूर्ण होती है |.......................................................हर-हर महादेव  

No comments:

Post a Comment

महाशंख  

                      महाशंख के विषय में समस्त प्रभावशाली तथ्य केवल कुछ शाक्त ही जानते हैं |इसके अलावा सभी लोग tantra में शंख का प्रयोग इसी...