============================
जाम्बवत्स्मारितबलं सागरोल्लङ्घनोत्सुकम् ।
स्मरतां स्फूर्तिदं
दीनरक्षकं नौमि मारुतिम् ॥ १॥
मैनाकसुरसासिंहीरतिलङ्घ्याम्बुधेस्तटे ।
पृषदंशाल्पकाकारं तिष्ठन्तं नौमि मारुतिम् ॥ २॥
त्रिकूटशृङ्गवृक्षाग्रप्राकारादिष्ववस्थितम् ।
दुर्गरक्षेक्षणोद्विग्नचेतसं नौमि मारुतिम् ॥ ३॥
लङ्कयाऽधृष्यवाममुष्टिघातावघूर्णया ।
उक्त्वाऽऽयतिमनुज्ञातं सोत्साहं नौमि मारुतिम् ॥ ४॥
विविधैर्भवनैर्दीप्तां पुरीं राक्षससङ्कुलाम् ।
पश्यन्तं राक्षसेन्द्रान्तःपुरगं नौमि मारुतिम् ॥ ५॥
ज्यौत्स्न्यां
निश्यतिरम्येषु हर्म्येषु जनकात्मजाम् ।
मार्गमाणमदृष्ट्वा तां विषण्णं नौमि मारुतिम् ॥॥
कुम्भकर्णादिरक्षोऽग्य्रप्रासादावृतमुत्तमम् ।
सुगुप्तं रावणगृहं विशन्तं नौमि मारुतिम् ॥ ७॥
पुष्पकाख्यं
राजगृहं भूस्वर्गं विस्मयावहम् ।
दृष्ट्वाप्यदृष्ट्वा वैदेहीं दुःखितं नौमि मारुतिम् ॥ ८॥
रत्नोज्ज्वलं
विश्वकर्मनिर्मितं कामगं शुभम् ।
पश्यन्तं पुष्पकं स्फारनयनं
नौमि मारुतिम् ॥ ९॥
सङ्कुलान्तःपुरं
सुप्तनानायौवतमच्छलम् ।
दृष्ट्वाप्यविकृतं सीतां दिदृक्षुं नौमि मारुतिम् ॥ १०॥
पीवानं रावणं सुप्तं तत्पत्नीं
शयनेऽन्यतः ।
दृष्ट्वा सीतेति संहृष्टं चपलं नौमि मारुतिम् ॥ ११॥
सुप्तस्त्रीदृष्टिनष्टात्मब्रह्मचर्यविशङ्किनम् ।
अपक्रम्याऽऽपानभूमिं गच्छन्तं नौमि मारुतिम् ॥ १२॥
कालात्ययनृपक्रोधकार्यासिद्धिविशङ्कितम् ।
निर्विण्णमप्यनिर्वेदे दृष्टार्थं नौमि मारुतिम् ॥ १३॥
पुनर्निवृत्तौ
कापेयमानुषापायशङ्किनम् ।
रामादीन् सिद्धये नत्वोत्तिष्ठन्तं नौमि मारुतिम् ॥ १४॥
सीतामशोकवनिकानद्यां स्नानार्थमेष्यतीम् ।
द्रष्टुं पुष्पितवृक्षाग्रनिलीनं नौमि मारुतिम् ॥ १५॥
सीतां दृष्ट्वा शिंशपाधःस्थितां
चारित्रमातृकाम् ।
मनसा राममासाद्य
निवृत्तं नौमि मारुतिम् ॥ १६॥
इह सीता ततो रामः ईदृशीयं स तादृशः ।
अन्योन्यमर्हत
इति स्तुवन्तं नौमि मारुतिम् ॥ १७॥
राक्षसीवेष्टितेहेयं तद्द्रष्टाहं नृपात्मजौ ।
नमामि सुकृतं मेऽतीत्याश्वस्तं नौमि मारुतिम् ॥ १८॥
सुप्तोत्थितं
दृष्टपूर्वं रावणं प्रमदाऽऽवृतम् ।
सीतोपच्छन्दकं
दृष्ट्वावप्लुतं नौमि मारुतिम् ॥ १९॥
रावणागमनोद्विग्नां विषण्णां वीक्ष्य मैथिलीम् ।
सर्वोपमाद्रव्यदूरां सीदन्तं नौमि मारुतिम् ॥ २०॥
सान्त्वेनानुप्रदानेन शौर्येण जनकात्मजाम् ।
रक्षोऽधिपे
लोभयति वृक्षस्थं नौमि मारुतिम् ॥ २१॥
मां प्रधृष्य सतीं नश्येरिति
तद्धितवादिनीम् ।
करुणां रूपिणीं सीतां पश्यन्तं नौमि मारुतिम् ॥ २२॥
मासद्वयावधिं
कृत्वा स्मारयित्वाऽऽत्मपौरुषम् ।
अपयातं रावणं धिक्वुर्वन्तं
नौमि मारुतिम् ॥ २३॥
कुलं वीर्यं प्रेम गत्यन्तराभावं
विवृण्वतीः ।
राक्षसीर्दुर्मुखीमुख्याः जिघत्सुं नौमि मारुतिम् ॥ २४॥
क्रुद्धाभिर्भर्त्स्यमानां तामात्मानमनुशोचतीम् ।
देवीं विलोक्य रुदतीं खिद्यन्तं
नौमि मारुतिम् ॥ २५॥
पुनर्निर्भत्सनपरास्वासु वेणीस्पृगङ्गुलिम् ।
मानुष्यगर्हिणीं
देवीं पश्यन्तं नौमि मारुतिम् ॥ २६॥
विलपन्तीं
जनस्थानाहरणाद्यनुचिन्तनैः ।
प्राणत्यागपरां
सीतां दृष्ट्वाऽऽर्तं नौमि मारुतिम् ॥ २७॥
त्रिजटास्वपनसंहृष्टां रक्षःस्त्रीभ्योऽभयप्रदाम् ।
अस्वस्थहृदयां
देवीं पश्यन्तं नौमि मारुतिम् ॥ २८॥
अचिरादात्मनिर्यातमदृष्ट्वोद्बन्धनोद्यताम् ।
सीतां दृष्ट्वा शिंशपाध उद्विग्नं
नौमि मारुतिम् ॥ २९॥
वामाक्ष्यूरुभुजस्पन्दैर्निमित्तैर्मुदितां शनैः ।
सीतां शान्तज्वरां
दृष्ट्वा प्रहृष्टं नौमि मारुतिम् ॥ ३०॥
दृष्टात्रेयं
कथं सान्त्व्योपेयाऽऽवेद्या न वेद्म्यहम् ।
इति रामकथाख्यानप्रवृत्तं नौमि मारुतिम् ॥ ३१॥
सुप्ते रक्षिगणे श्रुत्वा शुभां रामकथां द्रुमम् ।
उत्पश्यन्तीं
जनकजां पश्यन्तं नौमि मारुतिम् ॥ ३२॥
स्वप्ने कपिर्दुर्निमित्तं, श्रुता रामकथा शुभा ।
देवीं द्वेधा विमुह्यन्तीं
पश्यन्तं नौमि मारुतिम् ॥ ३३॥
का त्वं वसिष्ठचन्द्रात्रिपत्नीष्विति वितर्कितैः ।
सीतामौनमपास्यन्तं प्रणतं नौमि मारुतिम् ॥ ३४॥
रामदूतोऽस्मि
मा
भैषीः श्रद्धत्स्व प्रतिनेष्यसे ।
विशङ्कां सन्त्यजेत्येवंवदन्तं नौमि मारुतिम् ३५
सुग्रीवसख्यं
भूषाद्यावेदनं वालिनो वधम् ।
तीर्त्वाब्धिं
दर्शनं देव्या आख्यान्तं नौमि मारुतिम् ॥ ३६॥
अभिज्ञानेन
सुग्रीवोद्योगेन विरहाधिना ।
सुखिनीं दुःखिनीं देवीं पश्यन्तं नौमि मारुतिम् ॥ ३७॥
मानिनीं दृढविस्रम्भां
राघवोद्योगकाङ्क्षिणीम् ।
रक्षो जित्वैव नेयां तां नमन्तं नौमि मारुतिम् ॥ ३८॥
काकोदन्तं
रामगुणान् देवृभक्तिं शिरोमणिम् ।
अभिज्ञानतया
दात्रीं ध्यायन्तं नौमि मारुतिम् ॥ ३९॥
मणौ प्रतीतामुत्साहोद्योजनप्रार्थिनीं सतीम् ।
आश्वासयन्तमुचितैर्हेतुभिर्नौमि मारुतिम् ॥ ४०॥
पुनस्तदेवाभिज्ञानं स्मारयन्त्या कृताशिषम् ।
मैथिल्या मनसा राममासन्नं
नौमि मारुतिम् ॥ ४१॥
दृष्ट्वा सीतां ध्रुवे जन्ये ज्ञातुं रक्षोबलं वनम् ।
विनाश्य तोरणासीनं
युयुत्सुं नौमि मारुतिम् ॥ ४२॥
राक्षसीज्ञातवृत्तान्तरावणप्रेषितान् क्षणात् ।
निघ्नन्तं
किङ्करानेकं जयिष्णुं नौमि मारुतिम् ॥ ४३॥
जयत्यतिबल
इति गर्जन्तं पादपाग्निना ।
दग्ध्वा चैत्यं पुनः सङ्ग्रामोत्सुकं
नौमि मारुतिम् ॥ ४४॥
परिघीकृत्य
सालद्रुं प्रहस्तसुतमारणम् ।
दशग्रीवबलेयत्ताजिज्ञासुं नौमि मारुतिम् ॥ ४५॥
सप्तामात्यसुतानात्मनिनदैर्गतजीवितान् ।
कृत्वा पुनस्तोरणाग्रे
लसन्तं नौमि मारुतिम् ॥ ४६॥
उद्विग्नरावणाज्ञप्तपृतनापतिपञ्चकम् ।
प्रापय्य पञ्चतां तोरणाग्रस्थं
नौमि मारुतिम् ॥ ४७॥
अक्षं राजात्मजं
वीरं दर्शनीयपराक्रमम् ।
हत्वा नियुद्धे तिष्ठन्तं
तोरणे नौमि मारुतिम् ॥ ४८॥
नीतमिन्द्रजितास्त्रेण ब्राह्मेण क्षणरोधिना ।
सभास्थरावणोदीक्षाविस्मितं नौमि मारुतिम् ॥ ४९॥
दशास्यं मन्त्रिसंवीतं
वरोदीर्णं महाद्युतिम् ।
अनादृत्याहवक्लान्तिं पश्यन्तं नौमि मारुतिम् ॥ ५०॥
कोऽसि कस्यासि केनात्रागतो
भग्नं वनं कुतः ।
प्रहस्तस्योत्तरं दातुमुद्युक्तं नौमि मारुतिम् ॥ ५१॥
सुग्रीवसचिवं
रामदूतं सीतोपलब्धये ।
प्राप्तमुक्त्वा
तद्धितोक्तिनिरतं नौमि मारुतिम् ॥ ५२॥
भ्रातृसान्त्वित
पौलस्त्यादिष्ट वालाग्नियोजनम् ।
कर्तव्यचिन्तातिव्यग्रमुदीर्णं नौमि मारुतिम् ॥ ५३॥
वालदाहभिया
सीताप्रार्थनाशीतलानलम् ।
प्रीणयन्तं
पुरीदाहाद्भीषणं नौमि मारुतिम् ॥ ५४॥
अवध्य इति वालाग्रन्यस्ताग्निं नगरीं क्षणात् ।
दहन्तं सिद्धगन्धर्वैः
स्तुतं तं नौमि मारुतिम् ॥ ५५॥
लब्धा सीता, रिपुर्ज्ञातः, बलं दृष्टं, वृथाखिलम् ।
सीतापि मौढ्याद्दग्धेति
सीदन्तं नौमि मारुतिम् ॥ ५६॥
आपृच्छ्य मैथिलीं रामदर्शनत्वरयाचलात् ।
त्रिकूटादुत्पतन्तं तं कृतार्थं नौमि मारुतिम् ॥ ५७॥
सोपायनैरङ्गदाद्यैरुन्नदद्भिरुपास्थितम् ।
दृष्टा सीतेत्युदीर्याथ
व्याख्यान्तं नौमि मारुतिम् ॥ ५८॥
तीर्त्वान्विष्योपलभ्याश्वास्य च भङ्क्त्वोपदिश्य च ।
दग्ध्वा दृष्ट्वाऽऽगतोऽस्मीति ब्रुवन्तं नौमि मारुतिम् ॥ ५९॥
दृष्ट्वा सीतां रामनाम श्रावयित्वा
समागतः ।
ब्रूत कर्तव्यमित्येतान् पृच्छन्तं नौमि मारुतिम् ॥ ६०॥
न वयं, कपिराडत्र प्रमाणं प्रतियाम तम् ।
कुर्मस्तदादिष्टमिति प्रत्युक्तं नौमि मारुतिम् ॥ ६१॥
मध्येमार्गं
मधुवने निपीय मधु पुष्कलम् ।
नदद्भिर्वानरैः
साकं क्रीडन्तं नौमि मारुतिम् ॥ ६२॥
माद्यन्नृत्यत्कपिवृतं ध्वस्ते मधुवने क्षणात् ।
अभियुक्तं
दधिमुखेनाव्यग्रं नौमि मारुतिम् ॥ ६३॥
सीतां दृष्टां मधुवनध्वंसाद्विज्ञाय तुष्यता ।
दिदृक्षितं
कपीशेनात्यादरान्नौमि मारुतिम् ॥ ६४॥
निशम्य सुग्रीवादेशं
त्वरितैः सखिभिवृर्तम् ।
सुग्रीवेणादराद्दृष्टं महितं नौमि मारुतिम् ॥ ६५॥
नियतामक्षतां
सीतां अभिज्ञानं मणिं च तम् ।
निवेद्य प्राञ्जलिं
प्रह्वं कृतार्थं नौमि मारुतिम् ॥ ६६॥
दृष्ट्वा चूडामणिं साश्रु स्मृत्वा तातविदेहयोः
।
रामेण वृत्तविस्तारे
चोदितं नौमि मारुतिम् ॥ ६७॥
विस्रम्भं
तर्जनं शोकावेगं च समयावधिम् ।
सन्देशमुक्त्वा
कर्तव्योद्योजकं नौमि मारुतिम् ॥ ६८॥
त्वच्चित्ता
त्वयि विस्रब्धा विजित्य रिपुमञ्जसा ।
प्रत्यादेयेति
विनयाद्वदन्तं नौमि मारुतिम् ॥ ६९॥
स्निग्धरामपरीरम्भमुग्धस्मेरमुखाम्बुजम् ।
हृदयासीनवैदेहीराघवं नौमि मारुतिम् ॥ ७०॥
इति आत्रेय श्रीबालकृष्णशास्त्रिविरचितः
सुन्दरकाण्डप्रतिसर्गसङ्ग्रहात्मकः ।…………………………………………..हर हर महादेव
No comments:
Post a Comment