Thursday, 20 June 2019

बाणेश्वर अथवा संसारपावनकवचं

बाणेश्वर अथवा संसारपावनकवचं
==================
ब्रह्मवैवर्त पुराणान्तर्गतम्
-------------------------------
शिवस्य कवचं स्तोत्रं श्रूयतामिति शौनक ।
वसिष्ठेन च यद्दत्तं गन्धर्वाय च यो मनुः ॥ ३९॥
ओं नमो भगवते शिवाय स्वाहेति च मनुः ।
दत्तो वसिष्ठेन पुरा पुष्करे कृपया विभो ॥ ४०॥
अयं मन्त्रो रावणाय प्रदत्तो ब्रह्मणा पुरा ।
स्वयं शम्भुश्च बाणाय तथा दुर्वाससे पुरा ॥ ४१॥
मूलेन सर्वं देयं च नैवेद्यादिकमुत्तमम् ।
ध्यायेन्नित्याधिकं ध्यानं वेदोक्तं सर्वसम्मतम् ॥ ४२॥
ॐ नमो महादेवाय ।
-----------------------
बाण उवाच ।
---------------
महेश्वर महाभाग कवचं यत् प्रकाशितम् ।
संसारपावनं नाम कृपया कथय प्रभो ॥ ४३॥
महेश्वर उवाच ।
------------------
शृणु वक्ष्यामि हे वत्स कवचं परमाद्भुतम् ।
अहं तुभ्यं प्रदास्यामि गोपनीयं सुदुर्लभम् ॥ ४४॥
पुरा दुर्वाससे दत्तं त्रैलोक्यविजयाय च ।
ममैवेदं च कवचं भक्त्या यो धारयेत् सुधीः ॥ ४५॥
जेतुं शक्नोति त्रैलोक्यं भगवन्नवलीलया ।
संसारपावनस्यास्य कवचस्य प्रजापतिः ॥ ४६॥
ऋषिश्च्छन्दश्च गायत्री देवोऽहं च महेश्वरः ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ४७॥
पञ्चलक्षजपेनैव सिद्धिदं कवचं भवेत् ।
यो भवेत् सिद्धकवचो मम तुल्यो भवेद्भुवि ।
तेजसा सिद्धियोगेन तपसा विक्रमेण च ॥ ४८॥
शम्भुर्मे मस्तकं पातु मुखं पातु महेश्वरः ।
दन्तपङ्क्तिं नीलकण्ठोऽप्यधरोष्ठं हरः स्वयम् ॥ ४९॥
कण्ठं पातु चन्द्रचूडः स्कन्धौ वृषभवाहनः ।
वक्षःस्थलं नीलकण्ठः पातु पृष्ठं दिगम्बरः ॥ ५०॥
सर्वाङ्गं पातु विश्वेशः सर्वदिक्षु च सर्वदा ।
स्वप्ने जागरणे चैव स्थाणुर्मे पातु सन्ततम् ॥ ५१॥
इति ते कथितं बाण कवचं परमाद्भुतम् ।
यस्मै कस्मै न दातव्यं गोपनीयं प्रयत्नतः ॥ ५२॥
यत् फलं सर्वतीर्थानां स्नानेन लभते नरः ।
तत् फलं लभते नूनं कवचस्यैव धारणात् ॥ ५३॥
इदं कवचमज्ञात्वा भजेन्मां यः सुमन्दधीः ।
शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ ५४॥
इति श्रीब्रह्मवैवर्ते शङ्करकवचं समाप्तम् ।...............................................................................हर-हर महादेव

No comments:

Post a Comment

महाशंख  

                      महाशंख के विषय में समस्त प्रभावशाली तथ्य केवल कुछ शाक्त ही जानते हैं |इसके अलावा सभी लोग tantra में शंख का प्रयोग इसी...